________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
APPROACHOOL
तस्यांतिके गत्वा पादयोः पपात. कमठोऽपि तदानीं समुत्पन्नपूर्ववैरोल्लासेन मरुभूतेर्मळ उपरि महाशिला पातितवान्. ततो मरुभूतिस्तस्याः प्रहारेणारटन् कालं कृत्वा विंध्याचले बयथाधिपतिः करी समुत्पन्नः. इतश्चारविंदराजा कदाचिच्छरकाले सांतःपुरः प्रासादोपरि स्थितः क्रीडन्
शरदभ्रं सुस्निग्धं प्रच्छादितनभःस्थलं मनोहरं ददर्श. पुनस्तत्क्षणादेव वायुना विलीनं तदभ्रं पश्यन् | दृष्टांतावष्टंभेन सर्वेषां भावानां क्षणभंगुरतां भावयन् समुत्पन्नावधिज्ञानः परिजनेन प्रियमाणोऽपि
दत्तनिजयुत्रराज्यः स प्रबजितः. अन्यदा स राजर्षिर्विहरन् सागरदत्तसार्थवाहेन समं सम्मेतशिखरे ४/चैत्यवंदनाथ प्रस्थितः. सागरदत्तसार्थवाहेन पृष्टं भगवन् ! क गमिष्यसि ? यतिनोक्तं तीर्थयात्रायां. | सार्थवाहेनोक्तं कीदृशो भवतां धर्मः? मुनिना कथितो दयादानविनयमूलः सविस्तरस्तस्य धर्मः, तं श्रुत्वा स सार्थवाहः श्रावको जातः, क्रमेण महाटवीं प्राप्तः, यत्र स मरुभूतिजीवः करी जातोऽस्ति, तत्र महासरोवरं दृष्ट्वा तत्तीरे सार्थ उत्तीर्णः.
अत्रांतरे तस्मिन्नेव सरसि बहहस्तिनीपरिवृतः स करी जलपानार्थमागतो जलं सबिलासं पीत्वा
LOCACHER-CASS
-
For Private And Personal Use Only