________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ८१४ ॥
www.kobatirth.org
पालमारूढः सर्वत्र चक्षुर्विक्षिपन् साथै दृष्ट्वा तद्विनाशनाथ त्वरितं धावितः तं च तथागच्छंतं दृष्ट्वा सार्थजना इतस्ततः प्रणष्टाः, मुनिस्त्ववधिना ज्ञात्वा स्वस्थाने स्थितः कायोत्सर्गेण तेन करिणा सर्व सार्थप्रदेशं भ्रमता दृष्टः स महामुनिः, तदभिमुखं स धावितः आसन्नप्रदेशे गत्वा तं पश्यन्नुपशांतकोपोऽसौ निश्चलः स्थितः तथारूपं तं दृष्ट्वा तत्प्रतिबोधार्थ पारितकायोत्सर्गे मुनिरेवमूचे. भो मरुभूते! किं न त्वं स्मरसि मामरविंदनरपतिमात्मनः पूर्वभवं वा ? एतन्मुनिवचः श्रुत्वा |करी संजातजातिस्मरणः पतितो मुनिचरणयोः मुनिनापि सविशेषदेशनाकरणपूर्वं स श्रावकः कृतः. ततः प्रणम्य स करी स्वस्थानं गतः.
अत्रांतरे उपशांतं तं करिणं दृष्ट्वा साश्वर्यः सार्थजनः पुनस्तत्र मिलितः, प्रणम्य च मुनिचरणयुगलं प्रतिपन्नवान् दयामूलं श्रावकधर्मं ततः कृतकृत्यः सर्वोऽपि सार्थो मुनिश्च स्वस्वाचारनिरतो विजहार. इतश्च स कमठपरिव्राजको मरुभूतिविनाशनेनाप्यनिवृत्तवैरानुबंधो निजायुःक्षये मृत्वा समुत्पन्नः कुर्कुटसर्पः, विंध्यावनौ परिभ्रमता तेन दृष्टः स हस्ती पंकनिमग्नः पूर्ववैरोल्लासेन कुंभस्थले
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ८१४ ॥