________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ८०९ ॥
www.kobatirth.org
त्याः साध्व्याः सुभाषितेन स रथनेमिः पूर्वं धर्माद् भ्रष्टो धमें संप्रतिपातितो धम्यें मार्गे स्थापितः. केन क इव ? अंकुशेन नाग इव, यथां कुशेन नागो हस्ती मार्गाद् भ्रष्टो मार्गे स्थाप्यते, तथा रथनेमिरपि. ॥ मूलम् ॥-मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ || सामन्नं निच्चलं फासे । जावज्जीवं दढव्वए ॥ ४९ ॥ व्याख्या - यदा स साधुमार्गे स्थिरोऽभूत्तदा कीदृशोऽभूदित्याह - मनसा गुप्तो मनोगुप्तः, तथा वचसा गुप्तो वचोगुप्तो गुप्तवाक्. तथा पुनः कायेन गुप्तः कायगुप्तो गुप्तकाय:, इति गुप्तित्रयमहितः पुनः कीदृशः ? जितेंद्रियो वशीकृतेंद्रियः, एतादृशो रथनेमिर्यावज्जीवं दृढव्रतः सन् श्रामण्यं चारित्रधर्मं निश्चलं यथास्यात्तथा स्पृशति, सम्यक् क्रियानुष्ठानेन पालयति. ॥ ४९ ॥
॥ मूलम् ॥ उग्गं तवं चरित्ताणं । जाया दुन्निवि केवली ॥ सवं कम्मं खवित्ताणं । सिद्धिं पत्ता अणुत्तरं ॥ ५० ॥ व्याख्या - अनुक्रमेण तौ द्वावपि राजीमतीरथनेमी केवलिनौ जातो. किं कृत्वा ? उग्रमन्यैः कर्तुमशक्यं तपश्चरित्वा तपः कृत्वा, अनुक्रमेण च सर्वाणि कर्माणि क्षपयित्वा, पुनस्तावनुत्तरां सर्वोत्कृष्टां सिद्धिं मोक्षगतिं प्राप्तौ ॥ ५० ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* % ন জ
सटीकं
॥ ८०९ ॥