________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥८०४॥
धुना यथेच्छं भोगसुखं भोक्तव्यमिति भावः ॥ ३८॥
॥ मूलम् ॥-दळूण रहनेमि तं । भग्गजोयं पराइयं ॥राइमई असंभंता । अप्पाण संवरे तहिं॥ ३९ ॥ व्याख्या-तदा राजीमत्यसंभ्रांता सती, निर्भया सती, तया ज्ञातमहं बलात्कारेणापि शीलं रक्षयिष्यामीति निश्चित्याऽत्रस्तासत्यात्मानं शरीरं वस्त्रैः संवृणोत्याच्छादयति, गुहामध्यमेव स्थिता सतोति शेषः. किं कृत्वा ? रथनेमि भग्नयोगं दृष्ट्वा, भग्नो नष्टो योगः संयमोत्साहो यस्य स भग्नयोगस्तं पराजितं स्त्रीपरीषहेण पराभृतं रथनेमि ज्ञात्वा. ॥ ३९ ॥
॥ मूलम् ॥-अह सा रायवरकन्ना । सुटिया नियमवए ॥ जाई कुलं च सीलं च । रक्खमाणी तवं वए ॥४०॥ व्याख्या-अथानंतरं भग्नयोगस्य रथनेमेर्दर्शनानंतरं सा राजवरकन्या राजीमती | साध्वी तदा वदति, कोदशी सा ? नियमव्रते सुस्थिता, नियमे शौचसंतोषस्वाध्यायतपोलक्षणे स्थिरा. तथा व्रते पंचमहावतलक्षणे स्थिरा. पुनः सा किं कुर्वाणा? जातिकुलं शीलं तपश्च प्रति संरक्षमाणा. तत्र मातुवंशो जातिः, पितुर्वशः कुलमुच्यते, तयोरुभयोरपि नैर्मल्यं विदधतीत्यर्थः ॥४०॥
A5%-4000
॥८०४॥
For Private And Personal Use Only