________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ८०५ ॥
www.kobatirth.org
॥ मूलम् ॥ – जइसि रूवेण वेसमणो । ललिएणं नलकूबरो ॥ तहावि ते न इच्छामि । - इस सखं पुरंदरो ॥ ४१ ॥ व्याख्या - भो रथनेमे ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, यदि पुनर्ललितेन मनोहरलावण्यविलासेन नलकूबरो देवविशेषोऽसि, पुनर्यदि हे रथनेमे ! त्वं साक्षात्प्रत्यक्षं पुरंदरोऽसि, इंद्रावतारोऽसि, तथाप्यहं त्वां नेच्छामि, भोगार्थ नाभिलषामि. ॥ ४१ ॥
॥ मूलम् ॥ पक्खंदे जलियं जोई । धूमकेउं दुरासयं ॥ ने इच्छंति वंतयं भोक्तुं । कुले जाया अगंधणे ॥ ४२ ॥ व्याख्या - हे रथनेमे ! अगंधने कुले जाता उत्पन्नाः, अर्थादगंधकुलोत्पन्नाः सर्पा वातं विषं भोक्तुं, पुनः पश्चाद् गृहीतुं नेच्छति न वांछन्ति ज्वलभ्धूमकेतोरग्नेज्योंतिज्वलां प्रस्कंदे| दिति प्रस्कंदेयुः, प्राकृतत्वाद्बहुवचने एकवचनं. अगंधनजातीयाः सर्पा ज्वलदग्निज्वालां प्रविशेयुः, न तृगणं विषं पश्चाद् गृह्णन्ति कीदृशं धूमकेतोज्योंतिः ? दुरासदं दुस्सहमित्यर्थः ॥ ४२ ॥
॥ मूलम् ॥ धिगत्थु ते जसोकामी । जो तं जीवियकारणा ॥ वंतं इच्छसि आवेउं । सेयं ते मरणं भवे ॥ ४३ व्याख्या - हे अयशःकामिन्! हे अकीर्तिवांछक ! अथवा हे अयशः ! अकीर्ते !
॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* क क % न
सटीक
॥। ८०५ ॥