________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
॥७९९॥
RECORDCCIANSRCH
॥ मूलम् ॥-नाणेण दंसणेणं । चरित्तेणं तहेव य ॥ खंतीए मुत्तीए चेव । वडमाणो भवाहि य ॥ २६ ॥ व्याख्या-पुनराशीर्वचनमाह-पुनहें स्वामिंस्त्वं ज्ञानेन दर्शनेन तथैव चारित्रेण, च पुनः क्षांत्या क्षमया, च पुनर्मुक्त्या निर्लोभत्वेन वर्धमानो 'भवाहि' इति भव? ॥२६॥
॥ मूलम् ॥–एवं ते रामकेसवा । दसारा य बहूजणा ॥ अरिहनेमिं वंदित्ता। अइगया बारगापुरिं ॥ २७ ॥ व्याख्या-एवममुना प्रकारेण रामकेशवौ, च पुनर्दशापि दशार्हाः, च पुनर्बहवोऽन्ये जनाश्चत्वारो वर्णा अरिष्टनेमि स्वामिनं वंदित्वा स्तुत्वा नत्वा च द्वारिकापुरीमतिगताः प्रविष्टाः.
॥मूलम् ॥-सोऊण रायकन्ना । पवजं सा जिणस्स उ॥ नीहासा य निराणंदा । सोगेण य समुच्छया ॥ २८॥ व्याख्या-सा राजवरकन्योग्रसेननृपपुत्री राजीमती शोकेन समुच्छया समवस्मृताऽवष्टब्धा व्याप्तामृदित्यर्थः. किं कृत्वा? जिनस्य नेमिनाथस्य प्रवज्यां दीक्षां श्रुत्वा. कथंभूता सा? निर्हासा निर्गतो हासो यस्याःसा निर्हासा हास्यरहिता. पुनः कीदृशासा? निरानंदा आनंदरहिता.
॥ मूलम् ॥-राईमई विचिंतेइ । धिगत्थु मम जीवियं ॥ जाहं तेणं परिचत्ता । सेयं पवइउं
MADARASHALATHER.SHESAR
॥७९९॥
For Private And Personal Use Only