________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ७९८ ॥
www.kobatirth.org
चित्रायां चित्रानक्षत्रे निःक्रामति, दीक्षां गृह्णाति, पंचमहाव्रतोच्चारणं करोति. ॥ २३ ॥
॥ मूलम् ॥ - अह सो सुगंधगंधिए । तुरियं मउयकुंचिए ॥ सयमेव लुंबई केसे | पंचमुट्टीहिं समाहिए ॥ २४ ॥ व्याख्या -अथ पंचमहात्रतोच्चारणानंतरं स नेमिनाथः स्वयमेवात्मनैव त्वरितं केशान् पंचमुष्टिभिः कृत्वा लुंचते. कीदृशः सन् ? समाहितो ज्ञानदर्शनचारित्ररूपसमाधियुक्तः सन्. कीदृशान् केशान् ? सुगंधगंधिकान् स्वभावतः सुरभिगंधान् पुनः कीदृशान् ? मृदुककुंचितान्, मृदुकाश्च ते कुंचिताश्च मृदुककुंचितास्तान् सुकुमालान् अकुटिलान्. ॥ २४ ॥
॥ मूलम् ॥ वासुदेवो य तं भणइ । लुत्तकेसं जिइंदियं ॥ इच्छियमणोरहे तुरियं । पावेसू तं दमीसर ॥ २५ ॥ व्याख्या- तदा वासुदेवः कृष्णः, चकारात् समुद्रविजयादिनृपगणोऽपि तं नेमिनाथं जितेंद्रियं पुनर्लसकेशं कृतलोचमिति वचनं भणति इत्याशीर्वादवाक्यं ददाति भो दमीश्वर ! दमिनां जितेंद्रियाणामीश्वरो दमीश्वरः, तत्संबोधनं हे दमीश्वर ! यतीश्वर ! ईप्सितं वांछितं मनोरथं त्वरितं शीघ्रं तमिति त्वं प्राप्नुहि ? ॥ २५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोके
॥ ७९८ ॥