________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटोक
कृते सति, लोकांतिकदेववचनात्सांवत्सरिकदाने दत्ते सति, देवाश्चतुर्विधा यथोचितं यथायोग्यं सर्वउत्तरा
• समवतीर्णास्तत्रागताः. किं कर्तुं? तस्य भगवतो नेमिकुमारस्य निःक्रमणमहोत्सवं दीक्षामहि॥७९७॥ मानं कर्त. जेशब्दः पादपरणे. कीदृशा देवाः? सपरिषदः, सह तिसृभिः परिषद्भिर्वर्तते इति सपरि
पदः परीषत्सहिता इत्यर्थः ॥ २१ ॥
॥मलम् ॥-देवमणुस्सपरिवुडो । सिवियारयणं तओ समारूढो ॥ निक्खमिय बारगाओ। रेवयंमि ठिओ भयवं ॥ २२ ॥ व्याख्या-ततोऽनंतरं नेमिकुमारो भगवान् ज्ञानवान् दीक्षावसरज्ञो - देवमनुष्यैः परिवृतो देवमनुष्यपरिवृतः शिबिकारत्नमुत्तरकुरुनामकं समारूढो द्वारिकापुरितो निःक्रम्य निःसृत्य रेवते रैवताचले स्थितः. ॥ २२ ॥
॥मूलम् ॥-उजाणे संपत्तो। उइन्नो उत्तमाओ सीयाओ ॥ साहस्सीए परिखुडो। अह निट्र क्खमईहिं चित्ताहिं ॥ २३ ॥ व्याख्या-तत्र रेवताचले उद्याने सहस्राम्रनाम्नि वने संप्राप्तः. पुनरु-
तमायाः प्रधानायाः शिबिकाया उत्तीर्णः, सहस्रेण परिवृतः प्रधानपुरुषसहस्रेण संयुतः सन्, अथ
14--05-NCR559
७९७॥
For Private And Personal Use Only