________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥८००
AAAAAA54415
मम ॥ २९ ॥ व्याख्या-सा राजीमती मनसि विचिंतयति, मम जीवितं धिगस्तु.याहं तेन नेमिना- सटोकं थेन परित्यक्ता, अतो मम प्रबजितुं दीक्षां गृहीतुं श्रेयः, न तु गृहे स्थातुं श्रेय इति भावः ॥ २९ ॥
॥ मूलम् ॥-अह सा भमरसन्निभे। कुच्चफणगसाहिए ॥ सयमेव लुचई केसे । धिइमंता ववस्सिया ॥ ३० ॥ व्याख्या-अथानंतरं सा राजीमती स्वयमेव केशान् लुंचति. कथंभूता सा? धृतिमती धैर्ययुक्ता, पुनः कथंभूता? व्यवसिता निश्चला, धर्म कर्तुं स्थिरा. कीदृशान् केशान् ? 'कुच्चफणगपसाहिए' कूर्चफनकप्रसाधितान कूर्चा गूढकेशोन्मोचको वंशशलाकारचितः केशसंस्कर| णोपकरणविशेषः, फनको गजदंतकाष्टमयः कंकतकः, कूर्चश्च फनकश्च कूर्चफनको, ताभ्यां प्रसाधिताः संस्कृताः कूर्चफनकप्रसाधितारतान्. पुनः कीदृशान् ? भ्रमरसन्निभान् भ्रमरवच्छ्यामान्. ॥ ३०॥
॥ मूलम् ॥-वासुदेवो य तं भणई । लुत्तकेसं जिइंदियं ॥संसारसागरं घोरं । तर कन्ने लहुं लह ॥ ३१ ॥ व्याख्या-च पुनस्तदा वासुदेवः श्रीकृष्णस्तां राजीमती कन्यां भणति, आशीर्वाद प|mcoom ठति. हे कन्ये! हे राजीमति! घोरं रौद्रं संसारसमुद्रं लघु लघु त्वरितं त्वरितं तर? संसारसमुद्रस्य
For Private And Personal Use Only