________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा॥७८६॥
ON-CHAMPCATEGORMA-540
सोऽद्य सफलो जातः.
अन्यदा राजीमती साध्वीभिः समं भगवतो वंदनाथ रैवतगिरिं गच्छंत्यकस्मान्मेघवृष्ट्याऽभ्याहता. सर्वा अपि साध्योऽन्यगुहासुनिलीनाः.राजीमत्यप्येकस्यां गुहायां प्रविष्टाऽस्ति, तत्र च पूर्व रथनेमिसाधुः प्रविष्टो परमंधकारप्रदेशे स्थितोऽयं न दृष्टस्तया. ततस्तया चीवराणि सर्वाण्यप्युत्तारितानि, एवं सा निरावरणा जाता. तस्याः शरीरशोभां दृष्ट्वा, इंद्रियाणां च दुर्दाततयाऽनादिभवाभ्यस्ततया च विषयाभिप्रायेण स परवशो जातः, तादृशो रथनेमिश्च तया दृष्टः. ततो भयभ्रांता सा सद्य आत्मानं प्रावृत्य बाहुभ्यां संगोप्य च स्थिता. तेन भणिता हे सुतनु! तावदनुरागवशेनाहमिदंशरीरमरतिपरिगतं धतुं न शहोमि. ततः कृत्वानुग्रहं प्रतिपद्यस्व मया समं विषयसेवनं? पश्चात् संजातमनःसमाधी आवां | निर्मलं तपः संयमं च चरिष्यावः. तयापि साहसमवलंब्य प्रगल्भवचनैः स भणितः, महाकुलप्रसूतस्य तव किमिदं युक्तं स्वयं प्रतिपन्नस्य व्रतस्य भंजनं? जीवितमपि सत्पुरुषास्त्यजंति, न पुनर्वतलोपं कुर्वन्ति. ततो महाभाग! मनःसमाधि कृत्वा चिंतय विपयविपाकदारुणत्वं, शीलखंडनस्य नरकादिकं
७८६॥
For Private And Personal Use Only