________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥७८७ ॥
॥
61
www.kobatirth.org.
च फलं ? न च विषयसेवनेन मनःसमाधिः, किं तु भूरितराऽरतिर्भविष्यति. विषयसेवनेन लब्धप्रसरस्य मनसः प्रकाममिच्छा वर्धते, उक्तं च-भुत्ता दिवा भोगा । सुरेसु तह य मणुपसु ॥ न य संजाया तत्ति । अतत्ति रंकस्सवि जीअस्स ॥ १ ॥ इत्यादिवाक्यैस्तयाऽनुशासितः स संबुद्धः सम्यहं प्रतिबोधितस्त्वयेति भणन्नात्मानं निंदयित्वा, राजीमतीं च भृशं स्तुत्वा स गतः साधुसभामध्ये, सापि च साध्वीसभामध्ये गतेति. अरिष्टनेमिर्भगवान् मरकतसमवणों दशधनुरुच्छ्रितदेहः शंखलांछनस्त्रीणि वर्षशतानि गृहवासे स्थितः, चतुःपंचाशदिनानि छास्थ्ये स्थितः, चतुःपंचाशदिनानि सप्तशतवर्षाणि केवलपर्यायेण विहृत्यानेकभव्यान् प्रतिबोध्य च सर्वं वर्षसहस्रायुः परिपाल्य गिरावाषाढशुद्धाष्टम्यां सिद्धिं गतः क्रमेण रथनेमिराजीमत्यावपि सिद्धिं जग्मतुः इत्यरिष्टनेमिचरित्रं. सूत्रमये लिख्यते
॥ मूलम् ॥ – सोरियपुरंमि नयरे । आसि राया महट्टिए | वसुदेवत्ति नामेणं । रायलक्खणसंजु ॥ १ ॥ व्याख्या - सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजासीत्. यद्यपि सौर्यपुरे समु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
06
सटीकं
॥७८७॥