________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटोक
GE+
कालमहं त्वदाज्ञाकारी भविष्यामि. तया भणितं यद्यहं नेमिनाथेन परित्यक्ता, तथाप्यहं तं न परित्यजामि. यतोऽहं भगवत एव शिष्यिणी भविष्यामि. ततस्त्वमेनं प्रार्थनानुबंधं त्यज? ततः स कतिचिदिनानि यावन्मोनेन स्थितः. अन्यस्मिन् दिने पुनरपि तेन सा प्रार्थिता. ततस्तया तत्प्रतियोधार्थ तत्प्रत्यक्षमेव क्षीरं पीत्वा मदनफलपानेन वांत्वा, तच्च सोवर्णिककञ्चोलके क्षिप्त्वा समपनीतं रथनेमेणितं चेदं पिव? तेनोक्तं कथं वांतं पिबामि? तया भणितं त्वं किमेतज्जानासि ? स आह बालोऽप्येतजानाति. साख्यत्तर्हि नेमिनाथवांतां मां कथं त्वं पातुमिच्छसि ? इदं राजीमत्या वचः श्रस्वा स उपरतः. राजीमयपि दीक्षाभिमुखी तपोविधानैः शरीरं शोषयंती तिष्टति. अत्रांतरे चतःपं. चाशदिनपर्यंते भगवतः श्रीनेमिनाथस्य रैवतगिरिसहस्राम्रवने केवलज्ञानमुत्पन्नं. देवैः कृतं समवसरणं. तत्र समायातासु द्वादशपर्षत्सु देशना कृता. तां च श्रुत्वा बहवः प्राणिनः प्रव्रजिताः. केचिद् गणधरा जाताः, स्थापितं भगवता तीर्थ, राजीमत्यपि विविधकन्याभिः सह प्रबजिता. रथनेमिरपि विनम्तदानीमेव प्रत्रजितः राजीमती तदानीमेवमचिंतयत् , यो मया तदानी दिव्यपुरुषस्वप्नो दृष्टः
017-
म॥७८५॥
1-45
For Private And Personal Use Only