________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥७८२॥
SHRAMCHACHROCHEHERO
लाप. अहो! मयात्यंतदुर्लभे भुवननाथेऽनुरागं कुर्वत्याडात्मा लघूकृतः. धिग् मम सुकुलोत्पत्ति, धिग् मम रूपयोवनं च धिग् मम कलाकुशलतां, येनाहं नेमिना प्रतिपद्यापि मुक्ता. हे नाथ! मे जीवितं निर्गच्छति, अंगानि मे त्रुटंति, हृदयं मे स्फुटति. विरहाग्निज्वालाकुलितोऽयं ममात्मा, आहारो मे क्षारसदृशः, जलचंदनचंद्रिकादयः पदार्थाश्चिताग्निसदृशाः स्वामिंस्तव विरहे मम जायंते, स्वामिन् ! मां त्वं किं त्यजसि ? किं मम विरुद्धं त्वया श्रुतं दृष्टं वा? जन्मांतरकृतं ममाशुभकमैवोदितं, स्वामिन्नेकवारं ममाभिमुख दृष्टिं देहि ? प्रेमपरायां मयि त्वं सर्वथा निरपेक्षो माभूः? अथवा सिद्धिवधूत्कंठितस्य तव हृदयं सुरसुंदयोऽपि न हरंति, मनुष्यस्त्रीणां तद्धरणे का गणना? एवं महाशोकभरार्दिता विलपंती राजीमती सखीजनेन भणिता, अलंघनीयो भवितव्यतापरिणामः, ततो धीरत्वावलंबनं कुरु ? अलमत्र विलपितेन, सत्वप्रधाना राजपुत्र्यो भवंतीति भणित्वा संस्थापिता. द्वितीयदिनेऽनया सखीनां पुर एवमुक्तं, अद्य मयेदृशः स्वप्नो दृष्टः, यथा मवारदेशे एको दिव्यपुरुषो देवदानवपरिवृतः सिंहासनमारूढः, तस्याभ्यणेऽनेकजंतवः समायाताः, अहमपि तत्रैव गता. स च चतुरः शारी
SAHASRAEXICHARE
॥७८२॥
For Private And Personal Use Only