________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरारमानसदुःखप्रणाशकानि पादपफलानि तेभ्यो ददन्मया प्रार्थितो भगवन् ! ममाप्येतानि फलानि
सटो देहि? तेन तानि दत्तानि. तदनंतरं प्रतिबुद्धाहं, सखीभिभीणतं हे प्रियसखि! मुखकटुकोऽपि स्वप्नो॥७८३॥
ऽयं शीघ्रं परिणामसुंदरो भविष्यति,
इतश्च नेमिनाथः समुद्रविजयशिवादेव्यादिभिर्विविधैरुपायैः पाणिग्रहणाथं प्रार्थ्यमानोऽपि नैव तमर्थमंगीचकार. अस्मिन्नवसरे लोकांतिकास्तत्रागत्यैवमूचिरे, भगवन् ! सर्वजगजीवहितं त्वं तीर्थ प्रवर्तयेति भणित्वा जननीजनकादीनामंतिके गत्वैवमूचुः, भवत्कुलोत्पन्नः श्रीनेमिः प्रव्रजिषुरस्तीति को भवतां विषादः? नेमिरपि मातृपित्रोः पुरः कृतांजलिरेवमुवाच, इच्छामि युष्मदनुज्ञातः प्रबजितुं. इदं च श्रुत्वा शोकसंघट्टनिरुद्धहृदया धरणोतले निपतिता चूर्णितभुजवलया शिवादेवी, मिलितं
तत्र दशारचक्र, जलाभिषेकादिना लब्धसंज्ञा सा भणितुमारब्धा, वत्स! कथमस्माकं मनोरथं मूलादं दुच्छिदसि ? कथं वा त्वं सत्पुरुषोऽपि प्रार्थानाभगं करोषि ? दशारचक्रस्यापि मनःसंतापं किं करोषि? ४
11॥७८३॥ कथं च वयमुग्रसेनराज्ञो मुखं दर्शयिष्यामः? कथं च त्वदेकचित्ता सा वराकी राजोमती भविष्यति?
CONFACE%ACREN
-
-%
3-5-15
For Private And Personal Use Only