________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
4
%
तातपत्रचामरैर्वीज्यमानः, पृष्टौ गायमानमंगलः, सर्वतो मागधैः कृतजयजयारवः, सुरनरसंघेन सर्वतो वीक्ष्यमाणः, सुरीभिर्नारीभिश्च प्रार्थ्यमानो नेमिकुमारः प्राप्तो महता विस्तरेणोग्रसेननृपद्वारपु. रोरचितविवाहमंडपासन्नदेशं. राजीमत्यपि सर्वालंकारविभूषिता गवाक्षस्था नेमिं दृष्ट्वानंदपरवशा जाता. एतदपि तदानीं न वेत्ति, काऽहं ? किमत्रास्ति? कोऽयं कालः? कोहशी चेष्टेति. अत्रांतरे करुणारवं श्रुत्वा जानतापि नेमिना पृष्टः सारथिः, कोऽयं मरणभीरूणां प्राणिनामेष करुणारवः? : तेन कथितं स्वामिस्तव विवाहगौरवायानेकजनभोजनाय मेलिता अमी हरिणादयो जीवा व्यापादयिष्यंते, ते च सांप्रतमाकंदं कुर्वतीति. नेमिराह सारथे! रथमितो निवर्तय? नाहं विवाहं करिष्ये. यत्रैतावतां प्राणिनां वधस्तेन विवाहेन मे समाप्तं, संसारपरिभ्रमणहेतुरेवायं विवाहः. नेमिवचनाते सर्वेऽपि प्राणिनो मुक्ता गताः स्वस्थानं सुखेन. विरक्तचित्तं पश्चाद्वलमान नेमिनमालोक्याऽकांडवज्रप्रहारताडितेव विह्वला राजीमती धरणीतले
णातल निपतिता मूर्छिता, ससंभ्रमेण सखीजनेन शीतलजलसिक्ता, तालतेन वीजिता लब्धचेतनैवं विल
NCREC
%-
८
॥७८१॥
For Private And Personal Use Only