________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७८० ॥
6
www.kobatirth.org
नेमेरयमभिप्रायस्ताभिः कृष्णाय निवेदितः कृष्णेन च नेमिः स्वयं भणितः, ऋषभादयस्तीकरा दारसंग्रहं कृत्वा संतानपरंपरां वर्धयित्वा स्वेष्टलोकमनोरथान् पूरयित्वा पश्चिमवयसि निष्कांताः, शिवं प्राप्ताश्च त्वमपि तत्तुल्यस्तत्रैव मोक्षे यास्यसीति, दशारचक्रसंतोपाय किं न पाणिग्रहणं करोषि ? इति कृष्णः प्रकामं विवाहाग्रहं कृतवान् नेमिस्तु मौनमालंब्य स्थितः कृष्णेन चिंतितमनिषिद्धमनुमतमिति न्यायादंगीकृत एव नेमिना विवाह इति दशारचक्रायोक्तवान. संजातहर्षेण दशारचक्रेण भणितः कृष्णस्त्वमेव नेम्यानुरूपां कन्यां गवेषय ? ततः कृष्णेन गवेषय तोग्रसेन पुत्री राजी|मती कन्या नेमितुल्यरूपाता. सा पुनर्धनवतीजीवोऽपराजितविमानाच्च्युत्वा तत्रोत्पन्नास्तीति इयमेव नेम्यनुरूपेति तदर्थं कृष्णेनोग्रसेनः प्रार्थितः तेनापि मनोरथातीतोऽयमनुग्रह इति भणित्वा कन्या दत्ता. ततः कारितं कुलद्वयेऽपि वर्धापनं, गृहीतं विवाहलग्नं, कारितः समस्तजातिवर्गस्य भोजनाच्छादनादिसत्कारः, प्राप्ते च लग्नदिवसे दिव्यरमणीभिः स्नापितोऽलंकृतो विभूषितो मत्तवारणमारूढः, समंतान्मिलित दशारचक्रबलदेव वासुदेवादि यादव परिकरितः, पृष्ठौ वादितानेक कोटिप्रमाणवादित्रः, शिरोधृ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
||७८० ॥