SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie उत्तरा सटोर्क ७७९॥ MAR SHC-5A5% निश्चलं तथा बाहुरपि निश्चल एवेति जनैः प्रशंसा कृता. ततः परमचमत्कारं गतस्य स्वराज्यहरणशंकाकुलितचेतसो नारायणस्य कियान् कालोऽतिक्रांतः. अन्यदा नेमियॊवनं प्राप्तो विषयसुखनिःपिपासोऽपि समुद्रविजयादिना विवाहार्थं भृशमुक्तोऽपि न विवाहमंगीकुरुते. ततः समुद्रविजयादिभिः केशवस्यैवमुक्तं, केशव! तथा कुरु यथा नेमिर्विवाहमंगीकुरुते. कृष्णेनापि रुक्मिणीप्रमुखाः स्वभार्याः प्रेरिताः, ताभिर्जलकेलिकरणपूर्वकमेवं श्रीनेमिनाथस्योक्तं, स्वामिन् ! लोकोत्तरं तव रूपं, निरुपमाः सौभाग्यादयोऽनंतास्त्वयि गुणाः, निरामयस्तव देहः, सुरसुंदरीणामप्युन्मादजनक तव तारुण्यं. ततोऽनुरूपदारसंग्रहेण सफलं कुरु दुर्लभं मनुष्यत्वं. ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशचिस्वरूपाणां बहुदोषालयानां तुच्छसुखनिबंधनानामस्थिरसंगमानां रमणीनां संगमेन न भवति नरत्वं सफलं. अपि चैकांतशुद्धाया निष्कलंकाया निरुपमसुखायाः शाश्वतसंगमायाः सिद्धिववा एव संगमेन नरत्वं सफलं भवति. यतः-माणुसत्ताइसामग्गी। तुच्छभोगाण कारणा ॥रयणं च कोडिआइच्च । हारिति अबुहा जणा ॥१॥ अहं सिद्धिवधूनिमित्तमेव यतिष्ये. -CHAMATKARIDWARDSC) In७७ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy