________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥७७८॥
ENTEMPOSISGॐॐ
लकलनामापन्नोऽयं शंखनादः श्रूयते? तावतायुधपालेन कृष्णस्य यथार्थों व्यतिकरः कथितः. ततो
सटीक नेमिकुमारपराक्रमेण विस्मितो हरिबलदेवंप्रत्येवं बभाण. यस्य नेमिकुमारस्यैतादृशं सामर्थ्यमस्ति, स वर्धमानो मद्राज्यं सुखेन लास्यति. ततोऽस्य बलं परीक्ष्य राज्यरक्षणोपायं चिंतयामः. बलदेवेन भणितमलमनयाऽलोकशंकया, येनायं पूर्व केवलिभिर्निर्दिष्टो द्वाविंशतितमो जिनः, त्वं पुनर्भरताधस्वामी नवमवासुदेवः. अयं च भगवानकृतराज्य एवं परित्यक्तसकलसावद्ययोगः प्रवज्यां ग्रहीष्यति.
एवं निरंतरं बलदेवेन राज्यहरणशंकया वार्यमाणोऽपि कृष्णः कदाचिदुद्याने गत्वा नेमिनंप्र| त्येवमाह-कुमार ! निजनिजबलपरीक्षार्थमावां बाहुयुद्धेन युध्यावः. नेमिना भणितं किमनेन बुध जननिंदनीयेन बाहुयुद्धेन? वाग्युद्धेनैवावां युध्यावः. बाहयुद्धेन हारितस्य तव महानयशःप्राग्भारो भविष्यति. कृष्णेनोक्तं क्रीडया युध्यतोरावयोः कीदृशोऽयमयशःसमूहः? ततो भगवता नेमिना स्वबाहुः प्रसारितः, कथितं चायं मदीयो बाहुर्यदि भवता नामितस्तदा त्वया जितं, मया च हारित
12॥७७८॥ मिति. ततः कृष्णेन सर्वशक्त्यांदोलितोऽपि भगवद्दाहुन मनाक् चलितः. यथास्य भगवतो मनो
For Private And Personal Use Only