SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-4 सटोर्क उत्तरा अत्रांतरे कृष्णेन कंसे निपातिते जीवयशावचनेन यादवानामुपरि ऋद्धो जरासिंधुराजा, त च्छंकया सर्वेऽपि यादवाः पश्चिमसमुद्रयावद् गताः. तत्र केशवाराधितवैश्रमणेन कृता सर्वकांचनमयी ॥७७७॥ द्वादशयोजनायामा नवयोजनविस्तारा द्वारिकानाम्नी नगरी. तत्र सुखेन यादवास्तिष्टंति. क्रमेण निहते जरासिंधौ रामकेशवौ भरतार्धस्वामिनी जातो. अरिष्टनेमिर्भगवान् यौवनमनुप्राप्तः. विषयसुखपराङ्मुखोऽपि मित्रैः प्रेर्यमाणोऽसौ नानाविधक्रीडां करोति. अन्यदा समानवयस्कैरनेकराजकमारैः सह क्रीडन् स गतो नारायणस्यायुधशालायां. तत्र दृष्टान्यनेकानि देवाधिष्टितान्यायुधानि. तत्र दिव्यं कालावतं धनुः कौतुकेन गृह्णन् नेमिरायुधपालेन भणितः, कुमार! किमनेनाशक्यानुष्टानेन ? न हि नारायणमंतरेणान्यः कोऽपि नर इदं धनुरारोपयितुं शक्तः, तदा ईषद्धसित्वा नेमिना तद्ध नुर्लीलयवारोपितं, आस्फालिता जोवाः, तस्याः शब्देन मेदिनी कंपिता, विस्मिताः सर्वेऽप्यायुधशादालिका नराः. ततस्तद्धनुर्मुक्त्वा नेमिना शंखो गृहीतः पूरितश्च. तच्छब्देन सर्व जगद्दधिरितं, कंपिता|Years भूमिः, गिरिशिखराणि तुत्रुटुः, सा नगरी तु विशेषाञ्चकंपे. ततः कृष्णश्चिंतयति, किमेष प्रलयका. RDCCASSETHEAS AD-CREENAMOCI-ROS* For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy