________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥७७६॥
CRECORCANCREASILCASTE
तेजोराज्ञः पुत्रश्चित्रगतिनामा विद्याधरराजो जातः, धनवत्यपि कस्याचद्राज्ञः कन्या जाता, परिणीता च चित्रगतिनैव. तत्र मुनिधर्म कृत्वा 'माहिंदे धणो समाणिओ इयरो य तम्मित्तो जाओ, तत्तो चइऊण धणो अवराजिओ नाम राया जाओ, सा च पिईमई तस्स पत्ती. काउं समणधम्मं गयाई' द्वावपोमावारण्यकल्पे मित्रदेवो जातो, ततश्च्युतो धनदेवजीवः शंखराजा जातः, धनवतीजीवश्च तस्यैव कांता जाता. तत्र शंखराजा प्रतिपन्नमुनिधर्मो विंशतिस्थानकैर्निबद्धतीर्थकरनामगोत्रः कालं कृत्वाऽपराजितविमाने समुत्पन्नः. तत्कांतापि धर्मप्रभावेण तत्रैवोत्पन्ना. धनजीवस्ततश्च्युत्वा सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्टस्य समुद्रविजयस्य राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितः कार्तिककृष्णद्वादश्यां पुत्रत्वेनोत्पन्नः. उचितसमये श्रावणशुद्धपंचम्यां प्रसूता शिवादेवी, जातो दारकः, दिक्कुमारिकाविहितजातकर्मानंतरं सुरासुरैरुमस्तके जन्माभिषेके कृते सति राज्ञापि वर्धापनं कारितं. अस्मिंश्च गर्भगते कदाचित् स्वप्ने शिवादेव्याऽरिष्टरत्नमयो नेमिदृष्टः, अतोऽरिष्टनेमिरित्यस्य नाम कृतं. अयं कुमारोऽष्टवार्षिको जातः,
MAHARASHNECH
P॥७७६॥
For Private And Personal Use Only