________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा-1
॥६८॥
0000000000000000000000
रुष्टः, प्रभाते अपामार्थ गतेन मंत्रिणा क्रोधवहिज्वालामालाकुलो दृष्टः, ज्ञातं च स्वकीयसकलकुटुंबक्ष-15 सटीक यकारिराजकोपस्वरूपं, त्वरितमेव पश्चात्स्वगृहे गतः, श्रीयकस्याग्रे राजकोपस्वरूपमुवाच, एवं च सचिवेन तस्य शिक्षा दत्ता. हे वत्स! कल्ये यदाहं नृपस्य प्रणामं करोमि तदा स्वया खड्गेन मच्छिरश्छेदः कार्यः, अन्यथा सर्वकुटुंबक्षयमसो करिष्यति,मुखक्षिप्ततालपुटविषस्य मम शिरश्छेदे तव न | | कोऽपि दोष इति पैत्रवचस्तेन महता कष्टेन प्रतिपन्नं. प्रभाते राज्ञोऽये तथैव कृतं, राजपर्षदि हाहाकारो जातः, राज्ञोक्तं हे श्रीयक! किमिदं त्वया कृतं?श्रीयकः प्राह हे राजन् ! मम पित्रा न प्रयोजनं किंतु तवाज्ञायां प्रयोजनं यत्तवानिष्टं तन्ममाप्यनिष्टमेवेत्यसो मया हतः, तुष्टो भूपतिः श्रीयकस्य | कथयति त्वं मंत्रिमुद्रां गृहाण? तेनोक्तं मम वृद्धभ्राता स्थूलमद्रः कोशागृहे तिष्टति: ततःस्थूलभद्रो
नृपेणाकारितस्तत्रायातः, नृपेणोक्तं मंत्रिमुद्रां गृहाण? तेनोक्तमालोच्य गृहीष्ये. ततोऽशोकवाटिकायां | गत्वालाचयति संसारस्यानित्यतां, पितृविनाशकारिण्या मुद्रायाः शाकिन्या इव त्यागार्हतामालोच्य
Oil॥६८॥ लोचोऽनेन कृतः, गृहीता स्वयं तपस्या, राजसभायां समायातस्यास्य नृपेणोक्तं भोः स्थूलभद्रालोचितं?
000000000000000000
For Private And Personal Use Only