________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥६६॥
@@@@-00806@0000000@@@
सप्तमी पुत्री सप्तवारश्रुतग्रंथधारिका, एतादृशधारणान्विताः संति. अथ तत्र समायातो वररुचिः स्वकृतकाव्यानि नृपतेः पुरो वक्तुमारेभे, स्तुत्यंते भूपतिनोक्तमहो भट्टैतानि काव्यानि त्वत्कृतानि परकृतानि वा? सोऽवग्मत्कृतान्येव. राज्ञोक्तमेतानि काव्यानि मंत्रिणः सप्तपुत्रीणां मुखे समायांति,स वक्ति यदि ता वक्ष्यति तदाहमसत्यः, एवं तेनोक्ते यवन्यंतराद्यक्षानाम्नी प्रथमा पुत्री भूपतेः पुरः समागत्य सर्वाणि तानि काव्यानि पपाठ. एवं क्रमात्सर्वा अपि तानि काव्यानि पेटः, तथा प्रज्ञासद्भावात्ततो निष्कासितो राजकुलाद्वररुचिर्भपेन, सभाजनेन च तिरस्कृतः सर्वत्रापमानं प्राप्तः. अथ तेनेत्थं कपटं प्रारब्धं, संध्यायां गंगाजलांतयंत्रं कृत्वा दीनारपंचशती मुक्त्वा प्रभाते तत्र गत्वा | गंगां स्तौति, स्तुत्यंते लोकसमक्षं जलयंत्रग्रंथिपादेनाक्रम्य हस्ते गृहीत्वा जनेभ्यो दर्शयति मत्स्तुतिरंजिता गंगा मह्यमेवं दत्ते, राज्ञा तु कार्पण्यान्ममासत्कलंकमारोप्य तिरस्कारः कृत इति च वदति, तद्वार्ताश्रवणाल्लजितो राजा तवृत्तांतं शकडालमंत्रिणोऽये कथयामास, मंत्रिणा तत्र चरप्रेषणेन तज्जालयंत्रं ज्ञात्वा दीनारपंचशतग्रंथिमानाय्य स्वकरे धृतः, प्रभाते तत्र भूपतिः सनगरलोक
00000000000000000
॥६६
For Private And Personal Use Only