________________
Shri Mahavir Jain Nadhara Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥६५॥
000000000000000000000€
० स्वभर्तारं शकडालमंत्रिणं प्रत्याह वररुचेः काव्यानि त्वया नृपपर्षदि व्याख्येयानि, यथास्थितवस्तुप्र-
रूपणे सम्यक्त्वस्य भूषणं न तु दूषणमित्यादि स्ववनितावचोयुक्त्या तत्काव्यप्रशंसनं प्रतिपन्नं, प्रभाते पर्षदि भूपतेः पुरो वररुचिप्रोक्तानि काव्यानि मंत्रिणा प्रशंसितानि, तत्प्रशंसानंतरमेव राज्ञा वररुचि| भट्टाय दीनाराणामष्टोत्तरशतं दत्तं. ततःप्रतिदिनं विप्रो भूपतेः पुरोऽष्टोत्तरशतकाव्यानि नवीनानि वक्ति, स्तुतिप्रांते भूपप्रदत्तं दीनाराष्टशतं गृह्णाति, ततो वृद्धिमान् वररुचिनामा भट्टः शतसहस्रवित्तव्ययेन यागहोमादि कराति. मंत्री तु तथा वर्धमानं मिथ्यात्वं दृष्ट्वा तदाननिषेधाय राज्ञः पुर एवमुवाच हे राजन्नस्य ब्राह्मणस्यैतावद्धनं दत्वा कथं कोशक्षयो विधीयते? अयं तु परकाव्यहरणात्कवितस्कराऽस्ति, राज्ञोक्तं किमसौ पुरातनकवितानि काव्यानि मत्पुरो वक्ति? मंत्रिणाक्तमेतदुक्तानि काव्यानि सप्तापि मत्पुत्र्यः पठति, राज्ञोक्तं प्रातरेतदुक्तानि काव्यानि तव सप्तपुत्रीपार्श्वे पाठनीयानि.
ततो मंत्रिणा सर्व शिक्षयित्वा सप्तानि पुत्र्यः प्रभाते भूपपर्षदि यवन्यंतरिताः स्थापिताः, ताश्च क्रमाप्रथमा पुत्र्येकवारश्रुतसर्वग्रंथधारिका, द्वितीया तु द्विारश्रुतसर्वग्रंथधारिका, एवं सर्वा अपि याव
000000000000000000000
॥६५॥
For Private And Personal Use Only