________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ७७४॥
उत्तरा- ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत्, तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या. अन्यदा | भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यं तत्रैकं पथः परिभ्रष्टं क्षुधातृषा परिश्रमातीरेकनिमिलितलोचनं भूमितलमधिगतं कृशशरीरं मुनिवरं ददर्श तं च दृष्ट्वा स कुलपुत्र एवं चिंतितवान्, अहो एष महातपस्वीदृशीं विषमावस्थामापन्नः, ततस्तं जलेन सिक्तवान्, चेलांचलेन वीजितवांश्च, स्वास्थ्यमापन्नो नीतः स्वग्रामं, प्रतिजागरितश्चौषधपथ्याहारादिभिः मुनिनापि दत्त उपदेशः, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यं ततो भवद्भ्यामपि परमांसमद्याखेटकादिनियमं कर्तव्यं यदि पालयितुं शक्तौ, यतो बहुदोषाण्येतानि, यदुक्तं - पंचेंदियवहभूयं । मंसं दुग्गंधमसुइबीभत्थं ॥ रक्खपरितुलिय भक्खग । भीईजणयं कुगईमूलं ॥ १ ॥ तथा - गुरुमोहकलहनिद्दा । परिहर उवहासरोगभयहेऊ ॥ मजं दुग्गइमूलं । हिरिसिरिमइधम्मना - सकरं ॥ २ ॥ अपि च-मजे महुंमि मंसंमि । नवणीयंमि चउत्थए | उप्पजंति असंखा । णा जत्थ जंतुणो ॥ ३ ॥ तथा— सपरोवघायजणणी । इहेव तह नरयतिरियगइमूलं ॥ दुहमारणस्स
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥७७४ ॥