________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
A
उत्तरा- || ज्ञानेन यद् ज्ञानं सम्यक् क्रियाकलापवेदनं ज्ञानज्ञानं, तेनोपगतः सम्यग्ज्ञानकियासहितः. पुनः
कीदृशः? यशस्वी. स क इव? अंतरिक्षे आकाशे सूर्य इव, यथाकाशे सूर्यों विराजते, तथा स तप॥७७२॥
स्तेजसा विराजते इत्यर्थः ॥ २३ ॥
॥ मूलम् ॥-दुविहं खविऊण य पुण्णपावं । निरंगणे सवओ विप्पमुक्के ॥ तरित्ता समुदं च महाभवोहं । समुद्दपाले अपुणागमं गई गइत्तिबेमि ॥ २४ ॥ व्याख्या-स समुद्रपालः साधुरपुनरागमगतिं गतः, न विद्यते पुनरागमो यस्याः साऽपुनरागमा, अपुनरागमा चासौ गतिश्चाऽपुनरागमगतिस्तां गति, यत्र गतौ गतानां जीवानां पुनः संसारे आगमो न भवति, मोक्षं गत इत्यर्थः. किं कृत्वा मोक्षं गतः? द्विविधं घातिकं भवोपग्राहिकं पुण्यपापं शुभाशुभप्रकृतिरूपं क्षपयित्वा संपूर्ण भुक्त्वा. पुनः किं कृत्वा? महाभवोघं समुद्र तरित्वोल्लंघ्य, महांतश्च ते भवाश्च महाभवाः, तेषामोघः समूहो यत्र स महाभवौघः, तमेतादृशं समुद्रमर्थात्संसारसमुद्रं विलंध्य सिद्धो बभूवेत्यर्थः. परं की. दृशः स समुद्रपालितः साधुः? सर्वतो बाह्याभ्यंतरपरिग्रहाद्विप्रमुक्तः, अथवा शरीरसंगादपि विप्रमुक्तः,
ALOCACASSOCHAR
--15RCHIDAE
For Private And Personal Use Only