________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटोकं
॥ मूलम् ॥-अहिंस सच्चं च अतेणगं च । तत्तो य बंभं अपरिग्गहं च ॥ पडिवजिया पंच उत्तरा
महत्वयाई। चरिज धम्म जिणदेसियं विऊ ॥ १२ ॥ व्याख्या-तानि पंचव्रतानां नामान्याह-अ७६५॥
हिंसा, जीवानां वधो हिंसा, न हिंसाऽहिंसा सर्वजीवेषु दया प्रथमं १. च पुनः सत्यं २. च पुनरस्तैन्यकं, स्तेनस्य चौरस्येदं कर्म स्तैन्यं, न स्तैन्यमस्तैन्यं, अस्तैन्यमेवाऽस्तैन्यकं ३. ततोऽनंतरं ब्रह्म शीलं
४. च पुनरपरिग्रहं सर्वथा लोभत्यागः ५. स समुद्रपालः पंच महाव्रतानीमानि प्रतिपद्य जिनदेशितं Hधर्म चरेत् सेवेत, महाव्रतानि गृहीत्वैकत्र न तिष्टेदिति भावः. कथंभूतः सः? 'विऊ' इति वि- 2 द्वान् , वेत्ति हेयोपादेयविधीनिति विद्वान्. ॥ १२॥
॥ मूलम् ॥-सवेहिं भूएहिं दयाणुकंपे। खंतिखमे संजय बंभयारी ॥ सावज्जजोगं परिवजयंते । चरिज भिख्खू सुसमाहिइंदिए ॥ १३ ॥ व्याख्या- भिख्खू' इति भिक्षुः समुद्रपालितसाधुः सुसमाहितेंद्रियः सन् ' चरिज' इति विचरतेस्म. कथंभूतः सः? सर्वेषु भूतेषु दयानुकंपी, सर्वेषु प्राणिषु दयया हितोपदेशरूपयाऽनुकंपनशीलो दयापालनपरः स दयानुकंपी. पुनः कथंभृतः? क्षांति
SSCREWARI
७६५॥
For Private And Personal Use Only