________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥७५६॥
OMMERCIRCRACHARCHER
प्रपाल्य सर्वकर्माणि संक्षयं नीत्वा मोक्षं प्राप्नोतीत्यर्थः ॥ ५२॥ अथोपसंहारमाह
॥ मूलम् ॥-एवुग्गदंतेवि महातवोहणे । महामुणा महापइन्ने महायसे । महानियंठिजमिणं महासुयं । से काहए महया वित्थरेण ॥५३ ॥ व्याख्या-एवममुना प्रकारेण श्रेणिकेन राज्ञा | पृष्टः सन् स महामुनिर्महासाधुर्महता विस्तरेण बृहता व्याख्यानेन इदं महानिग्रंथीयं महाश्रुतमकथयत्. महांतश्च ते निग्रंथाश्च महानिग्रंथाः, तेभ्यो हितं महानिग्रंथीयं, महामुनीनां हितमित्यर्थः. कीदृशः सः? उग्रः कर्मशत्रुहनने बलिष्टः, पुनः कीदृशः सः? दांतो जितेंद्रियः, पुनः कीदृशः? महातपोधनो महच्च तत्तपश्च महातपः, महातपो धनं यस्य स महातपोधनः. पुनः कीदृशः? महाप्रतिज्ञो व्रते दृढप्रतिज्ञाधारकः, पुनः कीदृशः? महायशा महाकीर्तिः ॥ ५४॥
॥मूलम् ॥ तुह्रो हु सेणिओ राया । ईणमुदाह कयंजली ॥ अणाहत्तं जहाभूयं । सुटु मे उवदंसियं ॥ ५४॥ व्याख्या-श्रेणिको राजा तुष्टो हु इति निश्चयेनेदमुदाहेदमवादीत्. कीदृशः श्रेणिकः? कृतांजलिबद्धांजलिः. इदमिति किं? हे मुने! यथाभूतं यथावस्थितमनाथत्वं मे मम सु
॥७५६
For Private And Personal Use Only