________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७५४ ॥
बाल
SPI
www.kobatirth.org
॥ मूलम् ॥ एमेवहा छंदकुसीलरूवे । मग्गं विराहित्तु जिणुत्तमाणं ॥ कुररी इवाभोगरसाणुगिद्धा । निरसोया परियावमेइ ॥ ५० ॥ व्याख्या - एवमेवामुना प्रकारेण महात्रतविराधनादिप्रकारेणैव यथाछंदः कुशीलरूपः स्वकीयरुचिरचिताचारः कुत्सितशीलस्वभावः साधुर्जिनोत्तमानां तीर्थंकराणां मार्ग विराध्य परितापं पश्चात्तापमेति, क इव प्राप्नोति ? भोगरसानुगृद्धा कुररीव पक्षिणीव, भोगानां जिह्वास्वाददायकानां मांसानां रसेऽनुगृद्धा लोलुपा भोगरसानुगृद्धा. पुनः कीदृशी कुररी ? निरसोया, निरर्थकः शोको यस्याः सा निरर्थकशोका. यथा हि मांसरसगृद्धा पक्षिणी अन्येभ्यो महाबलेभ्यः पक्षिभ्यो विपत्तिं प्राप्य शोचते, तद्विपत्तेः प्रतीकारमनवलोकयंती पश्चात्तापं प्राप्नोति तथा संयमविराधको विषयाभिलाषद्रियसुखार्थी साधुलोंकद्वयानथं प्राप्नोति ततोऽस्य स्वपरित्राणासमर्थत्वेना. नाथत्वमिति भावः ॥ ५० ॥ अथ यत्कृत्यं तदाह
॥ मूलम् ॥ सुच्चाण मेहावि सुभासियं इमं । अणुसासणं नाणगुणोववेयं ॥ मग्गं कुसीलाण जहाय सवं । महानियंठाण वए पहेणं ॥ ५१ ॥ व्याख्या - हे मेधाविन्! हे पंडित ! हे राजन् ! इदं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ ७५४ ॥