________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोर्क
उत्तरा
REEODOAXICA5%
पुनर्यः साधुः कुहेटकविद्याश्रवद्वारजीवी भवति, कुहेटका विद्याः कुहेटकविद्याः, अलीकाश्चर्यविधायिमंत्रतंत्रयंत्रज्ञानात्मिकाः, ता एवाश्रवद्वाराणि, तैर्जीवितुमाजीविकां कर्तुं शीलं यस्य स कुहेडकविद्याश्रवद्वारजीवी. एतादृशो यो भवति, हे राजन्! परं तस्मिन् काले लक्षणस्वप्ननिमित्तकौतूहलकुहेटकविद्याश्रवद्वारोपार्जितपातकफलोपभोगकाले स साधुः शरणं त्राणं दुःकृतरक्षाक्षमं न गच्छति । न प्राप्नोति, तं साधु कोऽपि दुःखान्नरकतिर्यग्योन्यादौ न त्रायते इत्यर्थः ॥ ४५ ॥
॥ मूलम् ॥-तमंतमेणेव उ से असीले । सया दुही विप्परियासुवेई ॥ संधावइ नरगतिरि| क्खजोणिं । मोणं विराहित्तु असाहुरूवे ॥ ४६॥ व्याख्या-तु पुनः स द्रव्यमुंडोऽसाधुरूपो मौनं वि-14 राध्य साधुधर्म दूषयित्वा नरकतिर्यग्योनि संधावति, सततं गच्छति. पुनः सोऽशीलः कुशीलो विपर्यासमपैति, तत्वेषु वैपरीत्यं प्राप्नोति, मिथ्यात्वमूढो भवतीति भावः कीदृशः सः? तमस्तमसैव सदा दुःखी, अतिशयेन तमस्तमस्तमः, तेन तमस्तमसैवाऽज्ञानमहांधकारेणैव संयमविराधनाजनितदःखसहितः ॥ ४६॥
For Private And Personal Use Only