________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ७५० ॥
320)
www.kobatirth.org
सओववन्नो । हणाइ वेयाल इवाविवन्नो ॥ १४ ॥ व्याख्या - हे राजन् ! यथा कालकूटो महाविषः पीतः सन् ' हणाइ ' इति हंति, पुनर्यथा कुगृहीतं विपरीतवृत्त्या गृहीतं शस्त्रं हंति, एवमेवानेनैव दृष्टांतेन, महाविषकुगृहीतशस्त्रदृष्टांतेन विषयैरिंद्रियसुखैरुपपन्नो विषयोपपन्नो विषयसुखाभिलाषयुक्तो धर्मोऽपि हंति पुनः सविषयो धर्मोऽविपन्नवेताल इव हंति, मंत्रादिभिरकीलितः स्फुरद्दलो मंत्रयंत्ररनिवारितबल वेताल महापिशाचो मारयति, तथा विषयसहितो धर्मोऽपि मारयतीत्यर्थः ॥ ४४ ॥
॥ मूलम् ॥ - जे लक्खणं सुविणं पउंजमाणे । निमित्तकोऊहलसंपगाढे ॥ कुहेडविजासवदारजीवी । न गच्छई सरणं तंमि काले ॥ ४५ ॥ व्याख्या - यः साधुर्लक्षणं प्रयुंजानः, सामुद्रोक्तं स्त्रीपुरुषशरीरचिन्हं शुभाशुभसूचकं प्रयुंक्ते, गृहस्थानां पुरतो वक्ति. पुनर्यः साधुः, ' सुविणं ' स्वप्रविद्यां प्रयुंजानो भवति, स्वप्नानां फलाफलं वक्ति. पुनर्यः साधुर्निमित्तकौतूहलसंप्रगाढो भवति, निमित्तं च कौतूहलं च निमित्तकौतूहले, तयोः संप्रगाढोऽत्यंतासक्तः स्यात्, तत्र निमित्तं भूकंपोल्कापातकेतुदयादि, कौतूहलं कौतुकं पुत्रादिप्राप्त्यर्थं स्नानभेषजौषधादिप्रकाशनं, उभयत्र संरक्तो भवति.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥७५० ॥