________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥७४३॥
RADHANSINCHES
लोचनाभ्यां सिंचतिस्म. ॥ २८ ॥ पुनः सा बाला मत्कामिनी अन्नमशनं मोदकादिकं भक्ष्यं, पानं शर्करोदकादिकं, पुनः स्नानं कुंकुमादिपानीयैः. गंधैः सुरभितैलचोवकगोशीर्षचंदनप्रमुखः, माल्यैरनेकसुरभिपुष्पदामभिर्विलेपनं गात्रार्चनं, मया ज्ञातं वा अज्ञातं, स्वभावेनैवैतत्सर्व भोगांगं नोपभुक्ते, नानुभवति. मम दुःखात्तया सर्वाण्यपि भोगांगानि त्यक्तानि. ॥ २९ ॥ पुनहें महाराज! सा बाला मम पान्निकट्यान्न' विफिट्टइ' इति न विफिट्टति, नापयातीत्यर्थः. परं दुःखान्मां न विमोचयति, एषा ममाऽनाथता ज्ञेया. ॥ ३०॥
॥ मूलम् ॥-तओहं एवमाहिंसु । दुक्खमा हु पुणो पुणो ॥ वेयणा अणुभवेउं जे। संसारंमि अणंतए ॥ ३१॥ व्याख्या-ततोऽनंतरं प्रतीकारेषु विफलेषु जातेष्वहमेवमवादिषं. एवमिति किं ? हु इति निश्चयेन या वेदना अक्षिरोगप्रमुखा अनुभवितुं दुःक्षमाः, भोक्तुमसमर्थाः, ता वेदनाः संसारे पुनः पुनर्भुक्ता इति शेषः. वेद्यते दुःखमनयेति वेदना. ता वेदना दुःखेन क्षम्यंते सोते इति दुःक्षमा दुःसहाः. कीडशे संसारे? अनंतकेऽपारे. ॥३१॥
॥७४३॥
For Private And Personal Use Only