________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥ ६६४॥
फलानि? तापसो भणति, एतन्नगराभ्यणेऽस्मदाश्रमोऽस्ति, तत्रैतानि फलानि संति. राजा तेन सममेकाक्येव तत्र गतः, परं तत्र तापसैः स हंतुमारब्धः. राजा ततो नष्टस्तस्मिन्नेव वने जैनसाधून ददर्श, तेषामसौ शरणमाश्रितः. भयं मा कुर्विति तैराश्वासितः, तापसा निवृत्ताः, साधुभिश्च तस्यैवं धर्म उक्तः
धम्मो चेवेत्थ सत्ताणं । सरणं भवसायरे ॥ देवं धम्म गुरुं चेव । धम्मत्थी य परिक्खए ॥१॥ दसअट्ठदोसरहिओ। देवो धम्मोवि निउणदयसहिओ॥ सुगुरु य बंभयारी। आरंभपरिग्गहा विरओ ॥ २॥ इत्यादिकोपदेशेन स राजा प्रतिबोधितः, प्रतिपन्नो जिनधर्मः. प्रभावतीदेव आत्मानं दर्शयित्वा राजानं च स्थिरीकृत्य स्वस्थाने गतः. एवमुदायनराजा श्रावको जातः. इतश्च गंधारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वंदमानो वैताढ्यं यावद्गतः, तत्र शाश्वतप्रतिमावंदनार्थमुपवासत्रयं कृतवान्. ततस्तुष्टया तदधिष्टातृदेव्या तस्य शाश्वतजिनप्रतिमा दर्शिताः, तेन च वंदिताः अथ तया देव्या तस्मै श्रावकाय कामितगुटिका दत्ता, ततः स निवृत्तो
*॥६६४॥
For Private And Personal Use Only