________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६६५ ।।
www.kobatirth.org
वीतभयपत्तने जीवितस्वामिप्रतिमां वंदितुमायातः गोशीर्षचंदनमयीं तां स ववंदे. दैवात्तस्यातोसारो रोग उत्पन्नः कुब्जया दास्या स प्रतिचरितः स नीरुग् जातः तुष्टेन तेन तस्यै कामगुणिता गुटिका दत्ताः कथितश्च तासां चिंतितार्थसाधकप्रभावः अन्यदा सा दास्यहं सुवर्णवर्णा सुरूपा भ वामीति चिंतयित्वैकां गुटिकां भक्षितवती, सुवर्णवर्णा सुरूपा च जाता. ततस्तस्याः सुवर्णगुलिकेति नाम जातं. अन्यदा सा चिंतयति भोगसुखमनुभवामि एष उदायनराजा मम पिता, अपरे म तुल्याः केऽपि राजानो न संतीति चंडप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती तदानीं तस्य चंडप्रद्योतस्य स्वप्ने देवतया कथितं, वीतभयपत्तने उदायनराज्ञो दासी सुवर्णगुलिकानाम्नी सुवर्णवर्णाऽतीव रूपवती त्वद्योग्यास्ति. चंडप्रद्योतेन सुवर्णगुलिकायाः समीपे दूतः प्रेषितः दूतेनैकांते तस्या एवं कथितं चंडप्रद्योतस्त्वामीहते. तया भणितमत्र चंडप्रद्योतः प्रथममायातु तं पश्यामि, पश्चाद्यथारुच्या तेन सहायास्यामि दूतेन गत्वा तस्या वचनं चंडप्रद्योतस्योक्तं. सोऽप्यनलगिरिहस्तिनमारुह्य रात्रौ तत्रायातः, दृष्टस्तया रुचितश्च सा भणति यदीमां प्रतिमां सार्धं नयसि तदा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ६६५ ॥