________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा-टा
धेन स उक्तवान्, यत्तव मस्तकमपश्यन्नहं व्याकुलीभूतो हस्ताद्वीणां पातितवान्. सा भणति मया
सुचिरं श्रावकधर्मः पालितः, न किंचिन्मम मरणाद्भीतिरस्ति. अन्यदा तत्प्रतिमापूजनार्थ स्नाता सा ॥६६३॥
राज्ञी स्वचेटीप्रति वस्त्राण्यानयेत्युवाच. तया च दत्तानि, परं प्रभावती दृष्टिभ्रमेण, तया च रक्तानि वस्त्राण्यानीतानीति ज्ञात्वा क्रुद्धा प्राह, जिनगृहे प्रविशंत्या मम रक्तानि वस्त्राणि ददासीत्युक्त्वा चेटीमादशेण हतवती, मर्मणि तत्प्रहारलग्नात्सा मृता. प्रभावत्या चिंतितं हा! मया निरपराधत्रसजीववधकरणाद व्रतं भग्नं. अतः परं किं मे जीवितव्येन? ततस्तया राड्या राज्ञ उक्तमहं भक्तं प्रत्याख्यामि. राज्ञा नैवेति प्रतिपादितं. तया पुनः पुनस्तथैवोच्यते, तदा राज्ञोक्तं, यदि त्वं देवी मृत्वा मां प्रतिबोधयसि तदा त्वं भक्तं प्रत्याख्याहि? राझ्या तद्वचोंगीकृतं. भक्तं प्रत्याख्याय समाधिना | मृत्वा सा देवलोकं गता देवोऽभूत्. तां च प्रतिमा कुब्जा देवदत्ता दासी त्रिकालं पूजयति. प्रभावतीदेवस्तुदायनं राजानं प्रतिबोधयति, न च स संबुष्ट्यते. राजा तु तापसभक्तोऽतः स देवस्तापसरूपं कृत्वाऽमृतफलानि गृहीत्वागतो राज्ञे दत्तवान्. राज्ञा तान्यास्वादितानि, पृष्टश्च तापसः क्वैतानि
CAटकल-
॥६६३॥
क..
For Private And Personal Use Only