________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
उत्तरा
सटोकं
इत्युक्ते मंजूषा नोदघटिता. तत्र केचिद्भणत्यत्र देवाधिदेवश्चतुर्मुखो ब्रह्मास्ति. अन्ये केचिद्वदंत्यत्र
| चतुर्भुजो विष्णुरेवास्ति. केचिद्भणत्यत्र महेश्वरो देवाधिदेवोऽस्ति. अस्मिन्नवसरे तत्रोदायनराजप॥ ६६२४
दृराज्ञी चेटकराजपुत्री प्रभावतीनाम्नी श्रमणोपासिका तत्रायाता. तया तस्या मंजूषायाः पूजां कृत्वे वं भणितं-गयरागदोसमोहो । सबन्नू अट्ठपाडिहेरसंजुत्तो ॥ देवाहिदेवगुरुओ। अइरा मे दसणं देउ ॥१॥ एवमुक्त्वा तया मंजूषायां हस्तेन परशुप्रहारो दत्तः, उद्घटिता सा मंजूषा, तस्यां दृ-15 ष्टाऽतीवसुंदराऽम्लानपुष्पमालालंकृता श्रीवर्धमानस्वामिप्रतिमा, जाता जिनशासनोन्नतिः, अतीवा४ नंदिता प्रभावत्येवं बभाण-सवन्नू सोमदसण । अपुण्णभव भवियजणमणानंद ॥ जय चिंतामणि |
जगगुरु । जय जय जिण वीर अकलंको ॥१॥ तत्र प्रभावत्यांऽतःपुरमध्ये चैत्यगृहं कारितं, तत्रेयं प्रतिमा स्थापिता. तां च त्रिकालं सा पवित्रा पूजयति. अन्यदा प्रभावती राज्ञी तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां वादयति. तदानीं स राजा तस्या मस्तकं न पश्यति, राज्ञोऽधृतिर्जाता, हस्ताद्वीणा पतिता, राझ्या पृष्टं किं मया दुष्टं नर्तितं? राजा मौनमालंब्य स्थितः. राझ्या अतिनिब
AKAKARANARRAKAR
॥ ६६२॥
For Private And Personal Use Only