________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥६६१॥
दर्शयतिस्म, सर्व पूर्ववृत्तांतमाख्याति. ततः संवेगमापन्नः स देवो भणति, तदानीमहं किं करोमि? सटीक श्रावकदेवो भणति श्रीवर्धमानस्वामिनः प्रतिमां कुरु ? यथा तव सम्यक्त्वं सुस्थिरं भवति. यत उक्तं-जो कारवेइ जिणपडिमं । जिणाण जियरागदोसमोहाणं ॥ सो पावइ अन्नभवे । सुहजणणं धम्मवररयणं ॥१॥ अन्यच्च-दारिदं दोहग्गं । कुजाइकुसरीरकुगइकुमईओ ॥ अवमाणरोयसोआ । न हुंति जिणबिंबकारीणं ॥२॥ । ततः स विद्युन्माली महाहिमवच्छिखरानोशीर्षचंदनदारुं छेदयित्वा श्रीवर्धमानखामिप्रतिमां निर्वर्तितवान्, कियंतं कालं प्रतिमा पूजिता, तत आयुःक्षये तां च मंजूषायां क्षिप्तवान्. तस्मिन्नवसरे षण्मासान् यावदितस्ततो भ्रमद्वाहनं वायुभिरास्फाल्यमानं स विलोकितवान्. तत्र गत्वा चासो | तमुत्पातमुपशामितवान्, सांयात्रिकाणां च तां मंजूषां दत्तवान्, भणितवांश्च, देवाधिदेवप्रतिमा चात्रास्ति. ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः, तत्रोदायनराजा तापसभक्तस्तस्य सा|3|
॥६६१ ॥ मंजूषा दत्ता, कथितं च सुरवचनं, मिलितश्च तत्र ब्राह्मणादिकभरिलोको भणति च गोविंदाय नम
For Private And Personal Use Only