________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६६० ॥
www.kobatirth.org
देसिओ धम्मो ॥ १ ॥
इत्यादिशिक्षावादैर्मित्रेण स वार्यमाणोऽपि इंगिनीमरणेन मृतः पंचशैलाधिपतिर्जातः तन्मित्रस्य श्रावकस्य महान् खेदो जातः, अहो ! भोगकार्ये जना इत्थं क्लिश्यंति जानतोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म इति स श्रावकः प्रव्रजितः, क्रमेण कालं कृत्वाऽच्युतदेवलोके समुत्पन्नः अव धिना स स्ववृत्तांतं जानातिस्म. अन्यदा नंदीश्वरयात्रार्थं सर्वे देवेंद्राश्चलिताः, स श्रावकदेवोऽप्यच्युतेंद्रेण समं चलितः तदा पंचशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरत्ति. हासाप्रहासाभ्यामुक्तमियं पंचशैलद्वीपवासिनः स्थितिः, यन्नंदीश्वरद्वीपयात्रार्थं चलितानां देवेंद्राणां पुरः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति ततस्त्वं खेदं मा कुरु ? गललग्नमिमं पटहं वादयन् गीतानि गायंतीभ्यामावाभ्यां सह नंदीश्वरद्वीपे याहि ? ततः स तथा कुर्वन्नंदीश्वरद्वीपोद्देशेन चलितः श्रावकदेवस्तं सखेदं पटहं वादयंतं दृष्ट्वोपयोगेनोपलक्षितवान्, भणति च भो त्वं मां जानासि ? स भणति कः शकादिदेवान्न जानाति ? ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ६६० ॥