________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा- णेषु स्वं वपुः स्ववस्त्रेण दृढं बनीयाः, ते च प्रभाते इत उड्डीनाः पंचशैलं यास्यंति, त्वमपि तैः समं
पंचशैलं गच्छेः, स्थविरेणैवमुच्यमानेन तद्वाहनं वटाधो गतं. कुमारनंदिना वटशाखावलंबनं कृतं, ॥६५९।।
भग्नं च तद्वाहनं. कुमारनंदी तु भारंडपक्षिचरणावलंबेन पंचशैले गतः, हासाप्रहासाभ्यां दृष्टः, उक्तं च तवैतेन शरीरेण नावाभ्यां भोगो विधीयते, वनगरे गत्वांगुष्टत आरभ्य मस्तकं यावज्ज्वलनेन स्वं शरीरं त्वं दह ? यथा पंचशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णीकुरु? तेनोक्तं तत्राहं कथं यामि? ताभ्यां करतले समुत्पाट्य तन्नगरोद्याने स मुक्तः, ततो लोकस्तं पृच्छति, किं त्वया तत्राश्चयं दृष्टं? स भणति, दृष्टं श्रुतमनुभूतं पंचशैलं द्वीपं मया, यत्र प्रशस्ते हासाप्रहासाभिधे देव्यो स्तः. अथात्र
कुमारनंदिना स्वांगुष्टेऽग्निं मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वालयितुमारब्धं, तदा मित्रेदाणायं वारितः, भो मित्र! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तं. महानुभाव! दुर्लभं मनुष्यजन्म
मा हारय ? तुच्छमिदं भोगसुखमस्ति. किं च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु? यत उक्तं-धणओ धणत्थियाणं । कामत्थीणं च सबकामकरो ॥ सग्गापवग्गसंगम हेऊ जिण
॥६५९ ॥
For Private And Personal Use Only