________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६२ ॥
www.kobatirth.org
त्वां मुचामि, स! भारभनो वक्ति गृहीष्याम्येवं, ततो वैद्येनाप्यस्य दीक्षा दापिता देवे च स्वस्थानं गते तेन दीक्षा परित्यक्ता, देवेन पुनरपि तथैव जलोदरं कृत्वा वैद्यरूपधरेण पुनरसों दीक्षां ग्राहितः, पुनर्गते च देवे तेन दीक्षा त्यक्ता, तृतीयवारं दीक्षां दापयित्वा वैद्यरूपो देवः सार्धं तिष्टति स्थिरीकरणाय. एकदा तृणभारं गृहीत्वा स देवः प्रज्ज्वलद्ग्रामे प्रविशति ततस्तेन साधुनोक्तं ज्वलति ग्रामे कथं प्रविशसि ? देवेनोक्तं त्वमपि क्रोधमानमायालो भैः प्रज्ज्वलिते गृहवासे वारंवारं वार्यमाणोऽपि पुनः कथं प्रविशसि ? वैद्यरूपेण देवेनैवमुक्तोऽपि स न बुध्ध्यते. अन्यदा तावटव्यां गतौ, देवः कंटकाकुले मार्गे चरति, स प्राह कस्मादुन्मार्गेण यासि ? देवेनोक्तं त्वमपि विशुद्धं संयममार्ग परित्यज्याधि| वाधिरूपे कंटकाकीर्णे संसारमार्गे कस्माद्यासि ? एवं देवेनोक्तेऽपि स न बुध्ध्यते. पुनरेकस्मिन् देवकुले प्रांतो, तत्र यक्ष ईप्सित पूजा पूज्यमानोऽपि पुनः पुनरधोमुखः पतति, स कथयत्यहो यक्षस्याधमत्वं! यत्पूयमानोऽप्ययमधोमुखः पतति, देवेनोक्तं त्वमप्येतादृशोऽधमः, यद्वंद्यमानः पूज्यमानोऽपि त्वं पुनः पुनः प्रसि, तप्तः स साधुर्वक्ति कस्त्वं ? देवेन मूकरूपं दर्शितं पूर्वभवसंबंधश्च कथितः, स वक्त्यत्र कः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9009935000996
सटीकं
از
॥६२॥