________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६१ ॥
99999990090
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काच्च्युत्वा स देवस्तया गर्भे समुत्पन्नस्तस्याश्चाम्रोहदः समुत्पन्नः, मूकेन पूर्वोक्तरीत्या पूरितः, पुत्रो जातः, मूकस्तु तं बालं लघुमपि करे कृत्वा देवान् सार्धंश्च वंदापयति, परं स दुर्लभबोधित्वेन | तान् दृष्ट्वारटति एवमाबालकालादपि भृशं प्रतिबोधितोऽपि स न बुध्ध्यति ततो मूकः प्रव्रजितः, गतः स्वर्ग. अथ देवीभूतेन मूकजीवेन स दुर्लभबोधिर्बालः प्रतिबोधकृते जलोदरव्यथावान् कृतः, | वैद्यरूपं कृत्वा देवेनोक्तमहं सर्वरोगोपशमं करोमि, जलोदरी वक्ति मम जलोदरोपशांतिं कुरु ? वैद्येनोक्तं तवासाध्योऽयं रोगः, तथाप्यहं प्रतीकारं करोमि यदि मम पृष्टावैौषधकोत्थलकं समुत्पाट्य मयैव सहागमिष्यसि। तेनोक्तमेवं भवतु ततो वैद्येन स जलोदरी सज्जीकृतः समाधिभाग्जातः, तस्योत्पाटनायौषधकोत्थलकस्तेन दत्तः, स तत्पृष्टौ भ्रमंस्तं कोत्थलकमुत्पाटयति, देवमायया स कोत्थलकोऽतीव भारवान् जातः, तमतिभारं वहन् स खिद्यति, परं तमुत्सृज्य पश्चातुं न शक्नोति. माभूत्पश्वाद्गतस्य मे पुनर्जलोदरव्यथेति विमर्शं कुर्वन् वैद्यस्यैव पृष्टौ कोत्थलकं वहन् भ्रमति.
एकदैकदेशे स्वाध्यायं कुर्वतः साधवो दृष्टास्तत्र तौ गतौ. वैद्येनोक्तं त्वं दीक्षां ग्रहीष्यसि यथा
For Private And Personal Use Only
350090000
सटीकं
॥ ६१ ॥