________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सटीकं
उत्तरा
॥६
॥
000000000000000000000
स्मरणं प्राप्तवान्, सर्व स्वसुतादिकुटुंबं प्रत्यभिजानाति, परं वक्तुं न किंचिच्छक्कोति. अन्यदा सुतै| रेष शूकरो मारितः स्वगृहे एव सों जातः, तत्रापि जातिस्मरणवांस्तैरेव मारितः, पुत्रपुत्रो जातः, तत्रापि जातिस्मरणमाप, स एवं चिंतयति कथमेतां पूर्वभववधूं मातरमहमुल्लपामि? कथं चेमा पूर्वभवपुत्रं पितरमहमुल्लपामोति विचार्य मौनमाश्रितः, मूकवतभाग्जातः. अन्यदा केनचिच्चतु निना तद्दोधं ज्ञात्वा स्वशिष्ययोर्मुखे गाथा प्रेषिता, यथा-तावस किमिणा मूअ-वएण पडिवज जाणिअं धम्मं ॥मरिउण सूअरोरग। जाओ पुत्तस्स पुत्तत्ति॥१॥ एतां गाथां श्रुत्वा प्रतिबुद्धो गुरूणांसुश्रावको
ऽभूत्. एतस्मिन्नवसरे सोऽमात्यपुत्रजीवदेवो महाविदेहे तीर्थंकरसमीपे पृच्छति किमहं सुलभबोधिRI दुर्लभबोधिर्वा ? इति प्रश्ने प्रोक्तं तीर्थकरेण त्वं दुर्लभबोधिः कौशांब्यां मूकभ्राता भावीति लब्धोत्तरः
स सुरो गतो मूकपाश्वे, तस्य बहु द्रव्यं दत्वा प्रोक्तवान् यदाहं त्वन्मातुरुदरे उत्पत्स्ये तदा तस्या आम्रदोहदो भविष्यति, स दोहदः सांप्रतं मदार्शतसदाफलाम्रफलैस्त्वया तदानीं तस्याः पूर्णीकार्यः, पुनस्त्वया तथा विधेयं यथा तदानीं मम धर्मप्राप्तिः स्यात्. एवमुक्त्वा गतो देवः, अन्यदा देवलो
00000000000003933
For Private And Personal Use Only