________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
उत्तरा
सटोकं
॥६५२॥
दास भोक्तुमुपविष्टः, यावज्जेमति तावत्तस्याः पतिरे समायातः. तयोक्तं तलारक्षस्य शीघ्रमुत्तिष्ट ?
प्रविशास्मिंस्तिलगृहोदरे, परं दूरे न गंतव्यं, कोणे सर्पस्तिष्टति, त्वया तत्र प्रदेशे न गंतव्यं. प्रविष्टस्तलारक्षस्तिलगृहोदरे, पतिस्तत्रायातः क्षैरेयोपात्रं दृष्ट्वा तेन पृष्टं किमेतत् ? तयोक्तं बुभुक्षितास्मीति जेमामि. स उवाच त्वं तिष्ट ? अहं पथश्रांतत्वाद्विशेषतो बुभुक्षितोऽस्मीति प्रथमं जेमामि. तयोक्तमद्याष्टमी वर्तते, कथमस्नातो जेमसि? तेनोक्तं त्वं स्नातासीति तव स्नानेन मम स्नानं जात. मिति प्रोच्य स भोक्तुमुपविष्टः.
इतश्च तिलभक्षकनटफूत्कारश्रवणे सोऽयमिति फूत्करोतीति भीतस्तलारक्षस्तिलगृहोदरान्निगतो नष्टः, ततोऽयमेवावसर इति कृत्वा स्त्रीवेषधरो नटोऽपि नष्टः, पत्या पृष्टा सा स्त्रि किमेतत् ? तयोक्तं मया त्वं सांप्रतमेव वारितो यदद्याष्टम्यां त्वमस्नातो मा भोजनं कुरु ? त्वया चास्नातेनाद्य भोजनं कर्तुमारब्धं, अतस्त्वद्गृहे सदा वसंताविमो पार्वतीमहेश्वरी नष्ट्वा गतो. मदहर उवाच हा! दुष्टु कृतं मया, एवं पश्चात्तापं कुर्वन् पुनस्तां स उवाच, कोऽप्यस्त्युपायो यदेतो पुनरायातः? सो
a-CG4-COCOCCA-
C
A
For Private And Personal Use Only