________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६५१ ।।
www.kobatirth.org
विहारमकरोत् किं कृत्वा ? दशार्णराज्यं त्यक्त्वा, दशार्णानां देशानां राज्यं दशार्णराज्यं. कोदृशं दशार्णराज्यं ? मुदितं समृद्धं ॥४४॥ अत्र दशार्णभद्रदृष्टांतः- अस्ति विराटदेशे धन्यपुरं नाम सन्नि वेशः, तत्रैको मदहरनामा महत्तरपुत्रोऽस्ति, तस्य भार्या दुःशीला नगरारक्षकेण समं चौर्यरतिं कुर्वत्यस्ति. अन्यदा तत्र सन्निवेशे नटैर्नाटथं प्रारब्धं, तत्रैको नर्तकः स्त्रीवेषं कृत्वा नृत्यन्नस्ति. घनो लोको दर्शनार्थं मिलितोऽस्ति, सापि तत्र गतास्ति सा स्त्रीरूपधरं तं नर्तकं प्रेक्ष्य पुरुषं च ज्ञात्वा कामविह्वला जाता. एकं तत्पुरुषं प्राह, यद्यसावनेन वेषेण मद्गृहे समागत्य मया समं रमते, तदाहमस्मै अष्टोत्तरशतद्रव्यं ददामि तेन प्रतिपन्नं, भणितं च त्वं याहि ? एष तौ पृष्टौ त्वरितमेव समायास्यति। एषोऽपि तत्पृष्टौ तद्ग्रहे गतः, तया पादशोचनं दत्तं स भोक्तुमुपविष्टः, तया परिवेषितं क्षैरेय्या भृतं भाजनं यावदसौ भुंक्ते, तावतारक्षकस्तत्रायातोऽवदत् कपाटमुद्घाटयेति सा नटपुरुषमुवाच त्वं तिलगृहोदरे प्रविश? यावदेनं निवर्तयामि . स तिलगृहोदरे प्रविष्टः, बुभुक्षितः सन् कोणस्थांस्तिलान् फूत्कृत्य फूत्कृत्य खादति. आगतस्तलारक्षः कपाटं पिधाय. क्षैरेयीभृतं पात्रं दृष्ट्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ६५१ ॥