________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोर्क
॥६५०॥
गइमणुत्तरं ॥ ४३ ॥ व्याख्या-जयनामैकादशश्चक्रा जिनाख्यातं जिनोक्तं धर्म चरित्वा चानुत्तरां | गतिं प्राप्तः. कोदृशो जयनामा ? राजसहस्रैरन्वितो नृपसहस्रेण परिवृतो जैनी दीक्षामचरत्. पुनः कीदृशो जयनामा ? सुपरित्यागी सम्यक् परित्यागी. ॥ ४३ ॥ अत्र जयनामाचक्रवर्तिदृष्टांतः-राजगृहे नगरे वप्राया राझ्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः, क्रमेण संसाधितभरतश्चक्री जातः, राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिंतितवान्-सुचिरमपि उषित्वा स्यात् प्रियैर्विप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिंत्यो धर्म एकः सहायः ॥१॥ एवं संवेगमुपागतो निष्क्रांतोऽनुक्रमेण सि| द्धः. द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आतीदिति जयचक्रीदृष्टांतः. १०.
॥ मूलम् ॥-दसन्नरजं मुइयं । चइत्ताणं मुणी चरे ॥ दसन्नभदो निक्खंतो। सक्खं सक्केण | चोइओ ॥४४॥ व्याख्या-दशार्णभद्रो राजा साक्षात् शक्रेण चोदितः प्रेरितः सन् निष्क्रांतः, गृहस्थावस्थातो निःमृतः. पुनर्मोनी सन्नचरत. मुनेः कर्म मौनं, मौनमस्यास्तीति मौनी, मुनिर्भूत्वा
24CHOCALCIENCE
॥६५०॥
-OFCOM
For Private And Personal Use Only