________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
+91334
॥६५३॥
+435+4+
+x++4+4+4+
वाच यदि न्यायेन वित्तमुपाय॑ पूजां कुर्यास्तदा पुनरेतौ तव गृहे समायास्यतः, ततो गतो मदहरो देशांतरे, दशाणदेशे ईक्षुवाटककर्मणि लग्नः, दशगद्याणकसुवर्ण लब्धं, तथाप्यल्पमिति कृत्वा स न तुष्टिं प्राप. इतस्ततो भ्रमन् स एकदाटव्यां प्रविष्टः, पिप्पलतरुमूले विश्राम गृह्णाति. अत्रांतरेऽश्वापहृतो दशार्णभद्रस्तत्रायातः, तं दृष्ट्वा राज्ञा पृष्टं, कस्त्वं? किमर्थमत्रायातः? स उवाच यथास्थितवृत्तांतं. राज्ञा चिंतितमसौ स्त्रिया विप्रतारितः परदेशे भ्रमन्नस्ति. ततस्तस्य स्त्रीचरितमुक्त्वा तं च खगृहे नीत्वा भोजनादिचिंतनं विहितं. राज्ञा चिंतितमहो असत्यदेवेऽपीश्वरादी कीदृशी भक्तिर्वर्तते ? मया सत्यदेवेऽपि श्रीमहावीरे विद्यमानेऽपि तादृशं भक्तिप्रपंचनं न विहितमिति राजा यावच्चिंतयति तावदेकप्रतिहारपुरुषेण राज्ञोऽग्रे एवमुक्तं भगवान् श्रीमहावीरः समायातः. राजा परितुष्टश्चिंतयति, यदि नामैष मदहरो विशिष्टविवेकरहितोऽपि निजदेवपूजासंपादनार्थमेवं परिक्लिश्यते, ततोऽस्माभिरीदृशैः सारासारविवेचनविचक्षणैः समग्रसामग्या त्रिभुवनचिंतामणिकल्पस्य श्रीमहावीरस्य विशेषेण पूजा कायति. ततः कल्येऽहं सर्वा तथा श्रीमहावोरं वदिष्ये, यथा केनाप्येवं न
CASSECCCC
For Private And Personal Use Only