________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥६४८॥
च्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः. क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकंपयत्, शिखरिणां शिखराणि पातयतिस्म. त्रिभुवने क्षोभं कुर्वन् स मुनिः शक्रेण ज्ञातः, तस्य कोपोपशांतये शक्रेण गायनदेव्यः प्रेषिताः, ताश्चैवं गायंतिस्म-सपर संतावओ धम्मवणदावओ कुग्गइगमणहेउ कोवो ताओवसमं करेसु भयवंति. एवमादीनि गीतानि ता वारंवारं श्रावयंतिस्म. |स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान्, दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयतिस्म. ज्ञातवृत्तांतो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शांतिनिमित्तं विविधोपचारैः स उपशामितः. तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः. उपशांतकोपः स मुनिरालोचितः प्रतिक्रांतः शुद्धश्च. यत उक्तं-आयरिए गच्छंमि । कुलगणसंघे अ चेइअविणासे ॥ आलोइयपडिक्कतो । सुद्धो जं निजरा विउला ॥१॥ निष्कलंक श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णुकुमारः सिद्धिं गतः. महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूत्. इति महापद्मदृष्टांतः. ८.
॥ मूलम् ॥-एगछत्तं पसाहित्ता। महिं माणनिसूरणो॥ हरिसेणो मणुस्सिंदो। पत्तो गइम
६४८॥
For Private And Personal Use Only