________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटोक
॥६४७॥4
भणितं विष्णुकुमार एव त्वामिहानेष्यति. तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचुलायां प्राप्तः. तमायांतं दृष्ट्वा विष्णुकुमारेण चिंतितं किंचिद्गुरुकं संघकार्यमुत्पन्नं, यदयं मुनिवर्षाकालमध्येऽत्रायातः. ततः स मुनिर्विष्णुकुमारं प्रणम्यागमनप्रयोजनं कथितवान्. विष्णुकुमारस्तं मुनिं गृहीत्वा स्तोकवेलयाकाशमार्गेण गजपुरे प्राप्तः, वंदितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामंतादिभिर्वदितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग् विनयं चकार. विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितं, वर्षाकालं यावन्मुनयोऽत्र तिष्टंति. नमुचिना भणितं, किमत्र पुनः पुनर्वचनप्रयासेन ? पंचदिवसान यावन्मुनयोऽत्र तिष्टंतु, विष्णुना भणितं तवोद्याने मुनयस्तिष्टतु. ततः संजातामर्षेण नमुचिनैवं भणितं, सर्वपाखंडाधमैर्भवद्भिर्न मद्राज्ये स्थेयं, मद्राज्यं त्वरितं त्यजत ? यदि जीवितेन कार्य. ततः समुत्पन्नकोपानलेन विष्णुना भ-11 णितं, तथापि त्रयाणां पादानां स्थानं देहि ? ततो भणितं नमुचिना, दत्तं त्रिपदीस्थानं, परं यं
+॥६४७॥ त्रिपद्या बहिस्क्ष्यामि तस्य शिरश्छेदं करिष्यामि. ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि ग
For Private And Personal Use Only