SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥ ६४३॥x अश्वाः, सुभटाः परबलसत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्वं बलं दृष्ट्वा गंगाधरमहीधरौ स्वयमस्थितो, महापद्मेनोभावपि हतो. ततो लब्धजयः स महापद्म उत्पन्नस्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधि लिंशसहस्रमंडलेश्वरसेवितपादपद्मः, परिणीतेकोनचतुःषष्टिसहस्रांतःपुरो हयगजरथपदातिकोशसंपन्नोऽष्टमश्चक्रवर्ती जातः. तथापि षट्खंडभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते. अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य महापद्मचक्रिणस्तापसैर्महान् सत्कारः कृतः. जनमेजयेनापि राज्ञा मदनावली तस्य दत्ता, तेन परिणीता स्त्रीरत्नं बभूव. ततो महापद्मश्चक्रवर्तिऋद्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान्. ताभ्यामप्यधिकस्नेहेन प्रेक्षितः. अत्रांतरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागसूरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वंदित्वा पुरो निषण्णः. गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता. तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येवमुवाच, भगवन्नहं राज्यं स्वस्थं कृत्वा भवदंतिके प्रजिष्यामि. गुरुणा भणितं मा विलंबं कुर्विति गुरुं प्रणम्य नगरे प्रविष्टो राजा. आकारिता मंत्रिणः प्रधानपरिजना विष्णुकुमारश्च, सर्वेषामपि राज्ञैवमुक्तं, भो ॥ ६४३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy