________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥६४४॥
भोः! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वंचितः, यत् श्रामण्यं नानुष्टितवान्. ततः सांप्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि. ततो विष्णुकुमारेण विज्ञप्तं, तात! ममापि किंपाकोपमै गैः सृतं, तव मार्गमेवानुसरिष्यामि. १.
ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्च, पुत्र ! ममेदं राज्यं प्रतिपद्यस्व ? विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः. अथ विनीतेन महापद्मेन च भणितं, तात ! निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु ? अहं पुनरेतस्यैवाज्ञाप्रतीच्छको भविष्यामि. राज्ञा भणितं वत्स! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते, अवश्यमयं मया समं प्रजिष्यति. ततः शोभन दिवसे महापद्मस्य कृतो राज्याभिषेकः. विष्णुकुमारसहितः पद्मोत्तरराजा सुव्रतसूरिसमीपे प्रत्रजितः. ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः. स्वमातृअपरमातृकारितौ द्वावपि रथौ तथैव स्तः. महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः. तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः तेन महापद्मचक्रिणा सर्वस्मिन्नपि
ACANCIENCOLOCACASCHACHOOK
tu६४४
For Private And Personal Use Only