________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सटीक
॥ ६४२॥
कथमपि वरं. ततो नरपत्याज्ञया मया सर्वत्र वरनरेंद्रा विलोक्य विलोक्य पट्टिकायां लिखिताः, सर्वेऽपि तस्यादर्शिताः, न कोऽपि रुचितः, अन्यदा मया तस्यास्तव रूपं दार्शतं, तदर्शनानंतरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यं, अन्यपुरुषस्य मम यावजीवं निवृत्तिरेव. एष तस्या व्यतिकरो मया तन्मातृपित्रोर्ज्ञापितः. ताभ्यां त्वदानयनाया प्रयुक्ता. अविश्वसंत्यास्तस्या विश्वासार्थं मयेयं प्रतिज्ञा कृता, यद्यहं तं त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि. ततः कुमार! यदि तव प्रसादेन मम मरणं न संपद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रसादं कुरु ? ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः. खेचराधिपतिमिलितः, तेन च सुमुहर्ते तस्याः पाणिग्रहणं कारितः, पूजिता च वेगवती.
इतश्च जयचंद्राया मातुलभ्रातरौ गंगाधरमहीधरनामानौ विद्याधरावतिप्रचंडाविमं व्यतिकरं ज्ञात्वा अनेकभटसहितौ महापद्मेन समं संग्रामार्थमागतो. महापद्मोऽपि तयोरागमनं श्रुत्वा सूरोदयपुराइहिर्विद्याधरभटपरिवृतो निर्गतः, संप्रलग्नस्तयोः संग्रामः, तदानीं महापनेन स्यंदनाः, कुंजराः,
nxn--14th-ko
- - -
*
। ६४२॥
*
For Private And Personal Use Only